|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.169. अध्यायः 169
Mahabharata - Shanti Parva - Chapter Topics
ककसत्कृतेन गौतमेन तच्चोदनया तत्सुहृदो विरूपाक्षनाम्नो राक्षसस्य नगरं प्रति गमनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-169-0x(5859)(71752)
गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा।
कौतूहलान्वितो राजन्राजधर्माणमैक्षत॥ 12-169-1(71753)
राजधर्मोवाच। 12-169-2x(5860)
भोः काश्यपस्य पुत्रोऽहं माता दाक्षायणी मम।
सती त्वं च गुणोपेतः स्वागतं ते द्विजोत्तम॥ 12-169-2(71754)
भीष्म उवाच। 12-169-3x(5861)
तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा।
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत्॥ 12-169-3(71755)
भगीरथरथाक्रान्तदेशान्गङ्गानिषेवितान्।
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत्॥ 12-169-4(71756)
वह्निं चापि सुसंदीप्तं मीनांश्चापि सुपीवरान्।
स गौतमायातिथये न्यवेदयत काश्यपिः॥ 12-169-5(71757)
भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः।
श्रमापनयनार्थं स पक्षाभ्यामभ्यवीजयत्॥ 12-169-6(71758)
तनो विश्रान्तमासीनं गोत्रवृत्तमपृच्छत।
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्मणोस्मीत्युदाहरत्॥ 12-169-7(71759)
तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्।
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम्॥ 12-169-8(71760)
अपोपविष्टं शयने गौतमं वाक्यवित्तमः।
पप्रच्छ काश्यपिर्वाग्मी किमागमनमित्युत॥ 12-169-9(71761)
ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते।
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत॥ 12-169-10(71762)
तं काश्यपोऽब्रवीत्प्रीत्या नोत्कण्ठां कर्तुमर्हसि।
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्॥ 12-169-11(71763)
चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा।
मित्रं विद्या हिरण्यं च बुद्धिश्चेति बुधेप्सिता॥ 12-169-12(71764)
प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च महत्तरम्।
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान्॥ 12-169-13(71765)
ततः प्रभातसमये सुखं पृष्ट्वाऽब्रवीदिदम्।
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि॥ 12-169-14(71766)
इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान्।
विरूपाक्ष इति ख्यातः सखा मम महाबलः॥ 12-169-15(71767)
तं गच्छ द्विजमुख्य त्वं स मद्वाक्यप्रचोदितः।
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः॥ 12-169-16(71768)
इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः।
फलान्यमृतकल्पानि भक्षयानो यथेष्टतः॥ 12-169-17(71769)
चन्दनागुरुमुख्यानि पत्रत्वचवनानि च।
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ॥ 12-169-18(71770)
ततो मनुव्रजं नाम नगरं शैलतोरणम्।
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा॥ 12-169-19(71771)
विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः।
प्रहितः सुहृदा राजन्प्रीयमाणः प्रियातिथिः॥ 12-169-20(71772)
ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर।
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति॥ 12-169-21(71773)
तस्मात्पुरवरात्तूर्णं पुरुषाः श्वेतवेष्टनाः।
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन्॥ 12-169-22(71774)
ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम्।
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति॥ 12-169-23(71775)
राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः।
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम्॥ 12-169-24(71776)
ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः।
गौतमः परमर्द्धि तां पश्यन्परमविस्मितः॥ 12-169-25(71777)
तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत्।
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा॥ ॥ 12-169-26(71778)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः॥ 169॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-169-2 अतिथिस्त्वं गुणोपेत इति झ. पाठः॥ 12-169-12 चतुर्विधाह्यर्थसिद्धिर्बृहस्पतिमतं यथा। पारंपर्थं तथा दैवं काम्यं मैत्रमिति प्रभो। इति झ. पाठः॥ 12-169-19 मरुव्रजं नामेति थ. पाठः। मरुद्रजं नामेति द. पाठः। मेरुव्रजं नामेति झ. पाठः॥ 12-169-24 राक्षसाधिपतिः श्रीमाव्राजधर्मेण प्रेषितः। यदर्थमिह मां द्रष्टुं इति ट. ड. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|